वन्दे मातरम्
सुजलां सुफलां
मलयजशीतलाम्
शस्यश्यामलाम्
मातरम्
वन्दे मातरम्
शुभ्रज्योत्स्ना पुलकितयामिनीम्
फुल्लकुसुमित द्रुमदलशोभिनीम्
सुहासिनीं सुमधुर भाषिणीम्
सुखदां वरदां मातरम्
वन्दे मातरम्